पुंश्चली

सुधाव्याख्या

पुंश्चलीति । पुंसो भर्तुः सकाशाच्चलति पुरुषान्तरं गच्छति । ‘चल गतौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) – पुमांसं वृत्ताच्चालयति च्यावयति । कर्मण्यणन्तान्ङीप् (४.१.१५) इति मुकुटः । तन्न । ‘चल कम्पने’ इत्यनेन कम्पनादन्यत्र मित्त्वाविधानाद्वृद्धिप्रसङ्गात् । संज्ञापूर्वकत्वं वा वृद्धेः ॥