चर्षणी

सुधाव्याख्या

कर्षति मनः । ‘कृष विलेखने’ (भ्वा० प० अ०) । ‘कृषेरादेश्च चः’ (२.१०४) इत्यनिः—इति स्वामी ॥ ‘धर्षणी’ इति वा पाठः । धर्षयति । ‘ञिधृषा प्रागल्भ्ये’ (स्वा० प० से०) । ल्युट् (३.३.११३) । ‘धर्षणं स्यात्परिभवे रतेऽसत्यां तु ‘धर्षणी’ (इति मेदिनी) । ‘धर्षिणी’ इति क्वचित् पाठः ‘आवश्यका-’ (३.३.१७०) इति णिनिः ॥