अमरकोशः


श्लोकः

केका वाणी मयूरस्य समौ चन्द्रकमेचकौ । शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 केका केका स्त्रीलिङ्गः के मूर्धनि कायति । कृत् आकारान्तः
2 चन्द्रक चन्द्रकः पुंलिङ्गः चंद्र इव । कन् तद्धितः अकारान्तः
3 मेचक मेचकः पुंलिङ्गः मेचको वर्णोऽस्त्यस्य । अच् तद्धितः अकारान्तः
4 शिखा शिखा स्त्रीलिङ्गः शेते । उणादिः आकारान्तः
5 चूडा चूडा स्त्रीलिङ्गः चुड्यते । अङ् कृत् आकारान्तः
6 शिखण्ड शिखण्डः पुंलिङ्गः शिखिनाम्यते । उणादिः अकारान्तः
7 पिच्छ पिच्छम् नपुंसकलिङ्गः पिच्छ्यते वा । अच् कृत् अकारान्तः
8 बर्ह बर्हम् नपुंसकलिङ्गः बर्हति । अच् कृत् अकारान्तः