मेचकः

सुधाव्याख्या

मेचको वर्णोऽस्त्यस्य । अच् (५.२.१२७) । ‘बर्हिकण्ठसमं वर्णं मेचकं ब्रुवते बुधाः इति कात्यः । ‘मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके’ इति हैमः ॥