बर्हम्

सुधाव्याख्या

बर्हति । ‘बृह वृद्धौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘बर्हं पिच्छे दलेऽस्त्रियाम्’ (इति मेदिनी) ॥