पिच्छम्

सुधाव्याख्या

पिच्छयति । पिच्छ्यते वा । ‘पिच्छ कुट्टने’ (चु० प० से०) । अच् (३.३.१३४) । घञ् (३.३.१९) वा । ‘पिच्छा पूगच्छटाकोषमोचाशाल्मलिवेष्टके । भक्तसम्भूतमण्डे च पङ्कावश्वपदामये । स्त्रियां, पुंसि तु लाङ्गूले न द्वयोर्बर्हचूडयोः’ (इति मेदिनी) ॥