अमरकोशः


श्लोकः

कुङ्क्रौञ्चोऽथ बकः कह्व पुष्कराह्वस्तु सारसः । कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्रुञ्च क्रुञ्चः पुंलिङ्गः क्रुङ्ङिति । क्विन् उणादिः अकारान्तः
2 क्रौञ्च क्रौञ्चः पुंलिङ्गः अण् तद्धितः अकारान्तः
3 बक बकः पुंलिङ्गः वङ्कते । अच् कृत् अकारान्तः
4 कह्व कह्वः पुंलिङ्गः के जले वा ह्वयति । कृत् अकारान्तः
5 पुष्कराह्व पुष्कराह्वः पुंलिङ्गः पुष्करं पद्मं तस्याह्वा आह्वा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 सारस सारसः पुंलिङ्गः सरसि भवः । अण् तद्धितः अकारान्तः
7 कोक कोकः पुंलिङ्गः कोकते । अच् कृत् अकारान्तः
8 चक्र चक्रः पुंलिङ्गः क्रियते निशया वियोगी । निपातनात् अकारान्तः
9 चक्रवाक चक्रवाकः पुंलिङ्गः चक्रशब्देनोच्यते । घञ् कृत् अकारान्तः
10 रथाङ्गाह्वय रथाङ्गाह्वयः पुंलिङ्गः रथाङ्गस्य चक्रस्याहृयो नाम यस्य ॥ बहुव्रीहिः समासः अकारान्तः