चक्रः

सुधाव्याख्या

क्रियते निशया वियोगी । - घञर्थे कः - इति मुकुटः । तन्न । परिगणनात् । वस्तुतस्तु ‘ढकि लोपः’ (४.१.१३३) इतिवत् ‘के कृञादीनाम्’ (वा० ६.१.१२) इत्यनेनैव कः द्वित्वं च । चकते । ‘चक तृप्तौ’ (भ्वा० आ० से०) । रक् (उ० २.१३) वा । ‘चक्रः कोके पुमान्, क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः । जलावर्तेऽपि’ (इति मेदिनी) ॥