बकः

सुधाव्याख्या

अथेति । वङ्कते । ‘वकि कौटिल्ये गतौ च’ (भ्वा० आ० से०) । अच् (३.१.१३४) । आगमशास्त्रस्यानित्यत्वान्न नुम् । वबयोरैक्यम् । यद्वा वाति, वायति, वा । ‘वा गत्यादौ’ (अ० प० से०) । ‘ओ वै शोषणे’ (भ्वा० प० से०) वा । क्वुन् (उ० २.३२) । ‘आतो लोपः –’ (६.४.६४) । ‘व’ इति कायति वा । मूलविभुजादिः (वा० ३.२.५) । वक्ति वा । अच् (३.१.१४) । न्यङ्क्वादिः (७.३.५३) । ‘बकस्तु बकपुष्पे स्यात् कह्वे श्रीदे च रक्षसि’ (इति मेदिनी) ॥