कह्वः

सुधाव्याख्या

‘क’ इति शब्दम्, के जले वा ह्वयति । ‘हेञ् स्पर्धायां शब्दे च’ (भ्वा० उ० अ०) । मूलविभुजादित्वात् (वा० ३.२.५) कः ॥ ‘दीर्घजङ्घो निशैडः (तः स्याद्वकोटः शुक्लवायसः । कङ्केरुर्दारुबलिभुक् शिखी चन्द्रविहंगमः’ (इति त्रिकाण्डशेषः) ।