अमरकोशः


श्लोकः

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः । नीलङ्गुस्तु क्रिमिः कर्णजलौका शतपद्युभे ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लूता लूता स्त्रीलिङ्गः लुनाति । तन् उणादिः आकारान्तः
2 तन्तुवाय तन्तुवायः पुंलिङ्गः तन्तून् वयति । अण् कृत् अकारान्तः
3 ऊर्णनाभ ऊर्णनाभः पुंलिङ्गः ऊर्णेव तन्तुर्नाभावस्य । अच् तद्धितः अकारान्तः
4 मर्कटक मर्कटकः पुंलिङ्गः मर्कति । अटन् उणादिः अकारान्तः
5 नीलङ्गु नीलङ्गुः पुंलिङ्गः नितरां लङ्गति । कु उणादिः उकारान्तः
6 क्रिमि क्रिमिः पुंलिङ्गः क्रामति । कि उणादिः इकारान्तः
7 कर्णजलौकस् कर्णजलौकाः स्त्रीलिङ्गः कर्णस्य जलौकेव ॥ तत्पुरुषः समासः सकारान्तः
8 शतपदी शतपदी स्त्रीलिङ्गः शतं पादा यस्याः । बहुव्रीहिः समासः ईकारान्तः