क्रिमिः

सुधाव्याख्या

क्रामति । ‘क्रमु पादविक्षेपे (भ्वा० प० से०) । ‘क्रमितमिशस्तम्भामत इत्' (उ० ४.१२२) इति किः ॥ बाहुलकात् सम्प्रसारणमपि । ‘द्रुमामये भवेत्पुंसि कीटे च क्रिमिवत् कृमिः' इति रभसः । ‘क्रिमिर्ना कृमिवत् कीटे लाक्षायां कृमिले खरे' (इति मेदिनी) ॥