नीलङ्गुः

सुधाव्याख्या

नीति । नितरां लङ्गति । ‘लगि गतो' (भ्वा० प० से०) । नीलति वा । ‘णील वर्णे' (भ्वा० प० से०) । ‘खरुशङ्क (उ० १.३६) इति साधुः । ‘नीलङ्गुरपि नीलाङ्गुः' इति द्विरूपकोशः । नीलङ्गुः स्यात् कृमौ पुंसि भम्भराल्यां तु योषिति' इति मेदिनी ॥


प्रक्रिया

धातुः -


लगिँ गतौ
लग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नी + ल नुम् ग् - इदितो नुम् धातोः 7.1.58
नी + ल न् ग् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नी + लंग् - नश्चापदान्तस्य झलि 8.3.24
नी + लङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
नी + लङ्ग् + कु - खरु शङ्कु पीयु नीलङ्गु लिगु (१.३६) । उणादिसूत्रम् ।
नीलङ्ग् + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नीलङ्गु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नीलङ्गु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नीलङ्गु + रु - ससजुषो रुः 8.2.66
नीलङ्गु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नीलङ्गुः - खरवसानयोर्विसर्जनीयः 8.3.15