लूता

सुधाव्याख्या

लूतेति । लुनाति । ‘लूञ् छेदने’ (क्र्या० उ० से०) । ‘हसिमृगृ-' (उ० ३.८६) इति तन् । संज्ञापूर्वकत्वाद्गुणाभावः । बाहुलका-तन्–इति मुकुटस्त्वेतत्सूत्राज्ञानमूलकः । ‘लूता लूतका' इत्य-मरदत्तः । ‘लूता तु रोगे पिपीलिकोर्णनाभयोः इति हेमचन्द्रः ॥