अमरकोशः


श्लोकः

पत्त्री श्येन उलूके तु वायसारातिपेचकौ । व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पत्रिन् पत्री पुंलिङ्गः अतिशयितं प्रशस्तं वा पत्रमस्य । इनि तद्धितः नकारान्तः
2 श्येन श्येनः पुंलिङ्गः श्यायते । इनच् उणादिः अकारान्तः
3 उलूक उलूकः पुंलिङ्गः उल्विति । ऊक उणादिः अकारान्तः
4 वायसाराति वायसारातिः पुंलिङ्गः वायसस्य काकस्यारातिः ॥ तत्पुरुषः समासः इकारान्तः
5 पेचक पेचकः पुंलिङ्गः पचति – संतपति, पच्यते वा दुःखेन । वुन् उणादिः अकारान्तः
6 व्याघ्राट व्याघ्राटः पुंलिङ्गः व्याघ्रमटति । अण् कृत् अकारान्तः
7 भरद्वाज भरद्वाजः पुंलिङ्गः भरन् धारको वाजोऽस्य । बहुव्रीहिः समासः अकारान्तः
8 खञ्जरीट खञ्जरीटः पुंलिङ्गः खञ्ज इव ऋच्छति । कीटन् बाहुलकात् अकारान्तः
9 खञ्जन खञ्जनः पुंलिङ्गः खञ्जति । ल्यु कृत् अकारान्तः