उलूकः

सुधाव्याख्या

उल्विति । उचति । ‘उच समवाये' (तु० प० से०) । 'उलूकादयश्च' (उ० ४.४१) इति साधुः । 'उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि' (इति मेदिनी) ॥