पेचकः

सुधाव्याख्या

पचति – संतपति, पच्यते वा दुःखेन । ‘डुपचष् पाके' (भ्वा० उ० अ०) ॥ ‘पचिमच्योरिच्चोपधायाः' (उ० ५.३७) इति वुन् । अत इत्वम् । ‘पुगन्त-' (७.३.८६) इति गुणः । यत्तु मुकुट: - कृञादित्वात् (उ० ५.३५) वुन् । पृषोदरादित्वात् (६.३. १०९) अत एत्वम् इत्याह । तन्न । ‘पचिमच्योः ' इति सूत्रस्य सत्त्वात् । पृषोदरादित्वकल्पनाया अन्याय्यत्वात् । ‘अथ शक्राख्यो दिवान्धो वक्रनासिकः । हरिनेत्रो दिवाभीतो नखाशी पीयुघर्घरौ । काकभीरुर्नक्तचारी' इति त्रिकाण्डशेषः ॥