खञ्जनः

सुधाव्याख्या

खञ्जति । 'खजि गतिवैकल्ये' (भ्वा० प० से०) । नन्द्यादित्वात् (३.१.१३४) ल्युः । ‘खञ्जनः खञ्जरीटे, स्त्री सर्षप्यां, खञ्जनं गतौ' इति मेदिनी) ॥


प्रक्रिया

धातुः -


खजिँ गतिवैकल्ये
खज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ख + नुम् + ज् - इदितो नुम् धातोः 7.1.58
ख + न् + ज् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
खंज् - नश्चापदान्तस्य झलि 8.3.24
खञ्ज - अनुस्वारस्य ययि परसवर्णः 8.4.58
खञ्ज् + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
खञ्ज् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
खञ्ज् + अन - युवोरनाकौ 7.1.1
खञ्जन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
खञ्जन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
खञ्जन + रु - ससजुषो रुः 8.2.66
खञ्जन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
खञ्जनः - खरवसानयोर्विसर्जनीयः 8.3.15