अमरकोशः


श्लोकः

वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि । वत्सादनी छिन्नरुहा गुडूची तन्त्रिकाऽमृता ॥ ८२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बन्दा बन्दा स्त्रीलिङ्गः बन्द्यते । कृत् आकारान्तः
2 वृक्षादनी वृक्षादनी स्त्रीलिङ्गः वृक्षमत्ति । तत्पुरुषः समासः ईकारान्तः
3 वृक्षरुहा वृक्षरुहा स्त्रीलिङ्गः वृक्षं रोहति । तत्पुरुषः समासः आकारान्तः
4 जीवन्तिका जीवन्तिका स्त्रीलिङ्गः जीवति । कन् तद्धितः आकारान्तः
5 वत्सादनी वत्सादनी स्त्रीलिङ्गः वत्सैरद्यते । तत्पुरुषः समासः ईकारान्तः
6 छिन्नरुहा छिन्नरुहा स्त्रीलिङ्गः छिन्ना रोहति । तत्पुरुषः समासः आकारान्तः
7 गुडूची गुडूची स्त्रीलिङ्गः गुडति । ऊचट् बाहुलकात् ईकारान्तः
8 तन्त्रिका तन्त्रिका स्त्रीलिङ्गः तन्त्रयति । ण्वुल् कृत् आकारान्तः
9 अमृता अमृता स्त्रीलिङ्गः न मृतमस्याः । तत्पुरुषः समासः आकारान्तः