छिन्नरुहा

सुधाव्याख्या

छिन्ना रोहति । ‘इगुपध-' (३. १.१३५) इति कः । ‘ड्यापो:' (६.३.६३) इति ह्रस्वः ॥


प्रक्रिया

धातुः - रुहँ बीजजन्मनि प्रादुर्भावे च


रुह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छिन्ना + सु + रुह् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
छिन्ना + रुह् + क - सुपो धातुप्रातिपदिकयोः 2.4.71
छिन्ना + रुह् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
छिन्न + रुह - ङ्यापोः संज्ञाछन्दसोर्बहुलम् 6.3.63
छिन्नरुह + टाप् - अजाद्यतष्टाप्‌ 4.1.4
छिन्नरुह + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
छिन्नरुहा - अकः सवर्णे दीर्घः 6.1.101
छिन्नरुहा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
छिन्नरुहा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
छिन्नरुहा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68