वत्सादनी

सुधाव्याख्या

वत्सेति । वत्सैरद्यते । ‘अद भक्षणे' (अ० प० अ०) । ल्युट् (३.३.११३) ॥


प्रक्रिया

धातुः - अदँ भक्षणे


अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वत्स + भिस् + अद् + ल्युट् - उपपदमतिङ् 2.2.19, कृत्यल्युटो बहुलम् 3.3.113
वत्स + अद् + ल्युट् - सुपो धातुप्रातिपदिकयोः 2.4.71
वत्स + अद् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वत्स + अद् + अन - युवोरनाकौ 7.1.1
वत्सादन - अकः सवर्णे दीर्घः 6.1.101
वत्सादन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
वत्सादन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वत्सादन् + ई - यस्येति च 6.4.148
वत्सादनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वत्सादनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वत्सादनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68