तन्त्रिका

सुधाव्याख्या

तन्त्रयति । तत्रि कुटुम्बधारणे' (चु० उ० से०) । ण्वुल् (३.१.१३३) ॥


प्रक्रिया

धातुः - तत्रिँ कुटुम्बधारणे


तत्र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त + नुम् + त्र् - इदितो नुम् धातोः 7.1.58
त + न् + त्र् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तन्त्र् + ण्वुल् - ण्वुल्तृचौ 3.1.133
तन्त्र् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तन्त्र् + अक - युवोरनाकौ 7.1.1
तन्त्रक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
तन्त्रक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तन्त्रका - अकः सवर्णे दीर्घः 6.1.101
तन्त्रका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तन्त्रका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तन्त्रिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
तन्त्रिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68