अमरकोशः


श्लोकः

प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी । हञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रत्यक्पर्णी प्रत्यक्पर्णी स्त्रीलिङ्गः प्रत्यञ्चि पर्णान्यस्याः । कन् तद्धितः ईकारान्तः
2 कीशपर्णी कीशपर्णी स्त्रीलिङ्गः कपिलो मतुल्यानि लोमशानि पर्णान्यस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
3 किणिही किणिही स्त्रीलिङ्गः किणिनो व्रणान् जिहीते । तत्पुरुषः समासः ईकारान्तः
4 खरमञ्जरि खरमञ्जरिः स्त्रीलिङ्गः खरा मञ्जरिरस्याः ॥ बहुव्रीहिः समासः इकारान्तः
5 हञ्जिका हञ्जिका स्त्रीलिङ्गः हन्ति रोगान् । आकारान्तः
6 ब्राह्मणी ब्राह्मणी स्त्रीलिङ्गः ब्रह्मण इयम् । अण् तद्धितः ईकारान्तः
7 पद्मा पद्मा स्त्रीलिङ्गः पद्माभं पुष्पमस्याः । बहुव्रीहिः समासः आकारान्तः
8 भार्गी भार्गी स्त्रीलिङ्गः भर्जनम् । अण् तद्धितः ईकारान्तः
9 ब्राह्मणयष्टिका ब्राह्मणयष्टिका स्त्रीलिङ्गः ब्राह्मणयष्टिरिव । कन् तद्धितः आकारान्तः