हञ्जिका

सुधाव्याख्या

हञ्जीति । हन्ति रोगान् । पचाद्यच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । ‘अङ्गारवल्ली हञ्जी च वर्दो वर्वरकस्तथा (इति निघण्टुः) ॥ भनक्ति रोगान् । ‘भञ्जो आमर्दने' (रु० प० अ०) । ण्वुल् (३.१.१३३) वा । पृषोदरादिः (६.३.१०९) । (फञ्जिका, इति वा इति मुकुटः) ॥