प्रत्यक्पर्णी

सुधाव्याख्या

प्रत्यञ्चि पर्णान्यस्याः । ‘पाककर्ण-' (४.१.५४) इति ङीष् ॥


प्रक्रिया

प्रत्यक् + सु + पर्ण + जस् - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
प्रत्यक् + पर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रत्यक्पर्ण + ङीष् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
प्रत्यक्पर्ण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रत्यक्पर्ण् + ई - यस्येति च 6.4.148
प्रत्यक्पर्णी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रत्यक्पर्णी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रत्यक्पर्णी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68