भार्गी

सुधाव्याख्या

भर्जनम् । ‘भ्रस्ज पाके' (तु० उ० से०) । घञ् (३.३.१८) । ‘भ्रस्जो रोपधयो रमन्यतरस्याम्' (६.४.४७) इति रमागमः । ‘चजो:-' (७.३.५२) इति कुत्वम् । ‘भृजी भर्जने' (भ्वा० आ० से०) वा । घञ् (३.३.१८) । भर्गोऽस्त्यस्याः । ज्योत्स्नाद्यण् (वा० ५.२.१०३) ॥


प्रक्रिया

धातुः - भ्रस्जँ पाके


भ्रस्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भस्ज् + घञ् - भावे 3.3.18
भ् + अ + र् + ज् + घञ् - भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ 6.4.47
भर्ज् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भर्ग् + अ - चजोः कु घिन्ण्यतोः 7.3.52
भर्ग + सु + अण् - ज्योत्स्नादिभ्य उपसंख्यानम् (5.2.103) । वार्तिकम् ।
भर्ग + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
भर्ग + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भर्ग् + अ - यस्येति च 6.4.148
भार्ग - तद्धितेष्वचामादेः 7.2.117
भार्ग + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
भार्ग + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भार्ग् + ई - यस्येति च 6.4.148
भार्गी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भार्गी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भार्गी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68