अमरकोशः


श्लोकः

प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि । अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रत्यक्श्रेणी प्रत्यक्श्रेणी स्त्रीलिङ्गः प्रतीची श्रेणी यस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
2 सुतश्रेणी सुतश्रेणी स्त्रीलिङ्गः सुतानां श्रेणी यस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
3 रण्डा रण्डा स्त्रीलिङ्गः रमन्तेऽत्र । उणादिः आकारान्तः
4 मूषिकपर्णी मूषिकपर्णी स्त्रीलिङ्गः मूषिकः पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
5 अपामार्ग अपामार्गः पुंलिङ्गः अपमार्जन्त्यनेन । समासः अकारान्तः
6 शैखरिक शैखरिकः पुंलिङ्गः शिखरे प्रायेण भवति । ठक् तद्धितः अकारान्तः
7 धामार्गव धामार्गवः पुंलिङ्गः धामार्गं वाति । तत्पुरुषः समासः अकारान्तः
8 मयूरक मयूरकः पुंलिङ्गः मयूरप्रतिकृतिः । कन् तद्धितः अकारान्तः