रण्डा

सुधाव्याख्या

रमन्तेऽत्र । ‘रमु क्रीडायाम्' (भ्वा० आ० अ०) । ञमन्ताड्डः' (उ० १.११४) । ‘रण्डा मूषिकपर्ण्यां च विधवायां च योषिति' (इति मेदिनी) ॥ स्वामी तु–चण्ड्यते । चण्डा । प्रत्यक्श्रेणी वृषा चण्डा पुत्रश्रेण्याखुपर्णिका इति निघण्टुः – इत्याह ॥