अपामार्गः

सुधाव्याख्या

अपेति । अपमार्जन्त्यनेन । ‘हलश्च' (३.३.१२१) इति घञ् । निष्ठायामनिट्त्वात् कुत्वम् (७.३.५२) । ‘उपसर्गस्य घञि' (६.३.१२२) इति दीर्घः । अपकृष्ट आसमन्तान् मार्गोऽस्य, इति वा ॥