धामार्गवः

सुधाव्याख्या

धाम्नोऽर्गः । धामार्गं वाति । ‘आतोऽनुप-' (३.२.३) इति कः । ‘धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके' (इति मेदिनी) ॥ ‘अधामार्गवः' । अधामार्गवोऽपामार्गः कोशातकी च इतिद्ब्यर्थे इति स्वामी ॥