अमरकोशः


श्लोकः

बन्ध्योऽफलोऽवकेशी च फलवान्फलिन: फली । प्रफुल्लोत्फुल्लसम्फुल्लव्याकोशविकचस्फुटा: ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बन्ध्य बन्ध्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बन्धे साधुः । यत् तद्धितः अकारान्तः
2 अफल अफलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न फलान्यस्य ॥ तत्पुरुषः समासः अकारान्तः
3 अवकेशिन् अवकेशी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवसन्नाः केशा यस्य सोऽवकशा निष्केशः । बहुव्रीहिः समासः नकारान्तः
4 फलवत् फलवान् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः फलान्यस्य सन्ति । मतुप् तद्धितः तकारान्तः
5 फलिन फलिनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इनच् तद्धितः अकारान्तः
6 फलिन् फली पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इनि तद्धितः नकारान्तः
7 प्रफुल्ल प्रफुल्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रफुल्लविति । क्त कृत् अकारान्तः
8 उत्फुल्ल उत्फुल्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
9 संफुल्ल संफुल्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
10 व्याकोश व्याकोशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यावृत्तः कोशः संकोचोऽस्मात् । बहुव्रीहिः समासः अकारान्तः
11 विकच विकचः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विगतः कचोऽस्मात् । अच् कृत् अकारान्तः
12 स्फुट स्फुटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्फुटति । कः कृत् अकारान्तः