व्याकोशः

सुधाव्याख्या

व्यावृत्तः कोशः संकोचोऽस्मात् । ’प्रादिभ्यो धातुजस्य-' (वा० २.२.२४) इति समासः ॥ मूर्धन्यान्तो वा ॥


प्रक्रिया

व्या + सु + कोश + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
व्या + कोश - सुपो धातुप्रातिपदिकयोः 2.4.71
व्याकोश + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
व्याकोश + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्याकोश + रु - ससजुषो रुः 8.2.66
व्याकोश + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्याकोशः - खरवसानयोर्विसर्जनीयः 8.3.15