बन्ध्यः

सुधाव्याख्या

बन्ध्य इति । ‘बन्धस्त्वाधौ च बन्धने । बन्धे साधुः । ‘तत्र साधुः (४.४.९८) इति यत् । यतु मुकुटः - दिगादित्वात् (४.३.५४) यत् इत्याह । तन्न । अस्य सूत्रस्य ‘तत्र भवः (४.३.५३) इत्यत्र पाठात् । तत्र साधुः इत्यस्य ‘प्राग्घिताद्यत् (४.४.७५) इत्यधिकारे पाठात् ॥