अवकेशी

सुधाव्याख्या

अवसन्नाः केशा यस्य सोऽवकशा निष्केशः । सोऽस्ति दृष्टान्तत्वेनास्य । अत इनिः’ (५.२.११५) । स यथा निष्केशः । एवमयं निष्फलः । अवकं शून्यमीष्टे तच्छील: ॥ सुप्यजातौ-' (३.२.७८) इति णिनिः’इति वा ॥