अमरकोशः


श्लोकः

प्रकीर्यः पूतिकरजः पूतीकः कलिमारकः । करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रकीर्य प्रकीर्यः पुंलिङ्गः प्रकीर्यते । यक् उणादिः अकारान्तः
2 पूतिकरज पूतिकरजः पुंलिङ्गः पूतिश्चासौ करजश्च ॥ तत्पुरुषः समासः अकारान्तः
3 पूतीक पूतीकः पुंलिङ्गः पुनाति । ईकन् उणादिः अकारान्तः
4 कलिमारक कलिमारकः पुंलिङ्गः कलिं मारयति । तत्पुरुषः समासः अकारान्तः
5 षड्ग्रन्थ षड्ग्रन्थः पुंलिङ्गः षड् ग्रन्थयो यस्य । अच् तद्धितः अकारान्तः
6 मर्कटी मर्कटी स्त्रीलिङ्गः मर्कति । अटन् उणादिः ईकारान्तः
7 अङ्गारवल्लरी अङ्गारवल्लरी स्त्रीलिङ्गः अङ्गारवर्णपर्णावल्लरी ॥ ईकारान्तः