प्रकीर्यः

सुधाव्याख्या

प्रकीति । प्रकीर्यते । ‘कृ विक्षेपे' (तु० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) यक् । – ण्यति पूर्वविप्रतिषेधाद्दीर्घरपरत्वे च – इति मुकुटः । तन्न । पूर्वविप्रतिषेधस्य निर्मूलत्वात् । 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा० ७.१.१००) इति वचनाच्च । ‘प्रकीर्यः पूतिकरजे विप्रकीर्णे तु वाच्यवत् ॥