कलिमारकः

सुधाव्याख्या

कलिं मारयति । यदाहेन्दुः - ‘पूतीकरञ्जः सुमनास्तथा कलहनाशनः । मुकुटस्तु – कलिं करोति । ‘कर्मण्यम्' (३.२.१) । स्वार्थे कन् (५.३.७५) । कलिकारकः - इत्याह ॥


प्रक्रिया

धातुः - मृङ् प्राणत्यागे


मृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृ + णिच् - हेतुमति च 3.1.26
मृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मार् + ई - अचो ञ्णिति 7.2.115
कलि + अम् + मार् + इ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
कलि + मार् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कलि + मार् + अण् - णेरनिटि 6.4.51
कलि + मार् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कलिमार + कन् - संज्ञायां कन् 5.3.75
कलिमार + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कलिमारक - सुपो धातुप्रातिपदिकयोः 2.4.71
कलिमारक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कलिमारक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कलिमारक + रु - ससजुषो रुः 8.2.66
कलिमारक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कलिमारकः - खरवसानयोर्विसर्जनीयः 8.3.15