अमरकोशः


श्लोकः

सर्जकासनबन्धूकपुष्पप्रियकजीवकाः । साले तु सर्जकार्ष्याश्वकर्णकाः सस्यसम्बर: ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सर्जक सर्जकः पुंलिङ्गः सृजति । ण्वुल् कृत् अकारान्तः
2 असन असनः पुंलिङ्गः अस्यति रुजम् । ल्यु कृत् अकारान्तः
3 बन्धूकपुष्प बन्धूकपुष्पः पुंलिङ्गः बन्धूकस्येव पुष्पाण्यस्य ॥ तत्पुरुषः समासः अकारान्तः
4 प्रियक प्रियकः पुंलिङ्गः प्रीणाति । क्वुन् उणादिः अकारान्तः
5 जीवक जीवकः पुंलिङ्गः जीवयति । ण्वुल् कृत् अकारान्तः
6 साल सालः पुंलिङ्गः सल्यते । घञ् कृत् अकारान्तः
7 सर्ज सर्जः पुंलिङ्गः सर्ज्यते। अच् कृत् अकारान्तः
8 कार्ष्य कार्ष्यः पुंलिङ्गः कृषति । ष्यञ् कृत् अकारान्तः
9 अश्वकर्णक अश्वकर्णकः पुंलिङ्गः अश्वकर्ण इव पत्रमस्य ॥ अकारान्तः
10 सस्यसंवर सस्यसंवरः पुंलिङ्गः सस्यैः संव्रियते । तत्पुरुषः समासः अकारान्तः