असनः

सुधाव्याख्या

अस्यति रुजम् । ‘असु क्षेपणे (दि० प० से०) । ल्युः (३.१.१३३) । प्रियको जीवकोऽसनः' इति रत्नकोशः । ‘असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे । प्रज्ञाद्यण् (५.४.३८) । ‘पीठेभस्कन्धयो: क्लीबमासनं ना तु जीवके' इति रुद्ररभसौ ॥