कार्ष्यः

सुधाव्याख्या

कृषति । ‘कृष विलेखने’ (तु० उ० अ०) । ‘इगुपध-' (३.१.१३५) इति कः । चातुर्वर्ण्यादित्वात् (वा० ५.१.१२४) ष्यञ् ॥


प्रक्रिया

धातुः - कृषँ विलेखने


कृष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कृष् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
कृष् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कृष + सु + ष्यञ् - चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (5.1.124) । वार्तिकम् ।
कृष + ष्यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
कृष + य - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9
कृष् + य - यस्येति च 6.4.148
कार्ष् + य - तद्धितेष्वचामादेः 7.2.117
कार्ष्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कार्ष्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कार्ष्य + रु - ससजुषो रुः 8.2.66
कार्ष्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कार्ष्यः - खरवसानयोर्विसर्जनीयः 8.3.15