सालः

सुधाव्याख्या

सेति । सल्यते । ‘षल गतौ' (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । सारो दार्ढ्यमतिशयितमस्य । अर्शआद्यच् (५.२.१२७) वा । ‘पुंसि भूरुहमात्रेऽपि सालो वरणसर्जयो: इति दन्त्यादौ रभसः ॥