अमरकोशः


श्लोकः

काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके । गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काकेन्दु काकेन्दुः पुंलिङ्गः तत्पुरुषः समासः उकारान्तः
2 कुलक कुलकः पुंलिङ्गः कन् तद्धितः अकारान्तः
3 काकतिन्दुक काकतिन्दुकः पुंलिङ्गः कन् तद्धितः अकारान्तः
4 काकपीलुक काकपीलुकः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
5 गोलीढ गोलीढः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
6 झाटल झाटलः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
7 घण्टापाटलि घण्टापाटलिः पुंलिङ्गः, स्त्रीलिङ्गः तत्पुरुषः समासः इकारान्तः
8 मोक्ष मोक्षः पुंलिङ्गः अकारान्तः
9 मुष्कक मुष्ककः पुंलिङ्गः कक् उणादिः अकारान्तः