घण्टापाटलिः

सुधाव्याख्या

अहानि । घण्टा । बाहुलकाद्धन्तेष्टो धत्वं च । ‘पट गतौ (भ्वा० प० से०) । घञ् (३.३.१८) । पाटं लाति । बाहुलकाडिः । घण्टा चासौ पाटलिश्च ॥ स्वामी तु (घण्टा, पाटलिः) इति नामद्वयमाह ॥


प्रक्रिया

धातुः - हनँ हिंसागत्योः , पटँ गतौ , ला आदाने


हनँ हिंसागत्योः
हन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घन् + ष्ट - बाहुलकात् ।
घन् + ट - षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9
घं + ट - नश्चापदान्तस्य झलि 8.3.24
घण्ट - अनुस्वारस्य ययि परसवर्णः 8.4.58
घण्ट + टाप् - अजाद्यतष्टाप्‌ 4.1.4
घण्ट + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
घण्टा - अकः सवर्णे दीर्घः 6.1.101
पटँ गतौ
पट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पट् + घञ् - भावे 3.3.18
पट् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पाट् + अ - अत उपधायाः 7.2.116
ला आदाने
पाट + अम् + ला + डि - बाहुलकात् ।, उपपदमतिङ् 2.2.19
पाट + ला + ङि - सुपो धातुप्रातिपदिकयोः 2.4.71
पाटला + इ - चुटू 1.3.7, तस्य लोपः 1.3.9
पाटल् + इ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
घण्टा + सु + पाटलि + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
घण्टा + पाटलि - सुपो धातुप्रातिपदिकयोः 2.4.71
घण्टापाटलि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
घण्टापाटलि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घण्टापाटलि + रु - ससजुषो रुः 8.2.66
घण्टापाटलि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घण्टापाटलिः - खरवसानयोर्विसर्जनीयः 8.3.15