कुलकः

सुधाव्याख्या

कुलस्य गृहस्य प्रतिकृतिरिव । ‘इवे प्रतिकृतौ (५.३.९६) इति कन् । ‘कुलकं तु पटोले स्यात्संबद्धश्लोकसंहृतौ । पुंसि बल्मीककाकेन्दु कुलश्रेष्ठेषु कथ्यते' इति विश्वमेदिन्यौ ॥