अमरकोशः


श्लोकः

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादकण्टकः । विकङ्कत: स्रवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सौवीर सौवीरम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
2 बदर बदरम् नपुंसकलिङ्गः अकारान्तः
3 घोण्टा घोण्टा स्त्रीलिङ्गः बाहुलकात् आकारान्तः
4 स्वादुकण्टक स्वादुकण्टकः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
5 विकङ्कत विकङ्कतः पुंलिङ्गः अतच् उणादिः अकारान्तः
6 स्रुवावृक्ष स्रुवावृक्षः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
7 ग्रन्थिल ग्रन्थिलः पुंलिङ्गः लच् तद्धितः अकारान्तः
8 व्याघ्रपाद् व्याघ्रपात् पुंलिङ्गः तत्पुरुषः समासः दकारान्तः