घोण्टा

सुधाव्याख्या

घोणते । ‘घुण भ्रमणे' (भ्वा० आ० से०) । बाहुलकाट्टः । ‘घोण्टा तु बदरीपूगवृक्षयोरपि योषिति' (इति मेदिनी) । ‘बदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते' ॥ स्वामी तु आद्यास्त्रयो वृक्षार्थाः । अन्ये फलार्थाः । घोण्टा तूभयार्था — इत्याह । स्वामी तु घोण्टाकोले व्यत्यासेन पठति ।