बदरम्

सुधाव्याख्या

सुवीरदेशे भवम् । (‘तत्र भव:' (४.३.५३) इत्यण् । ‘स्रोतोञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च' इति दन्त्यादौ रभसः ॥


प्रक्रिया

बद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बद् + अर - अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् (३.११७) । उणादिसूत्रम् ।
बदर + अण् - तत्र भवः 4.3.53
बदर - फले लुक् 4.3.163
बदर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
बदर + अम् - अतोऽम् 7.1.24
बदरम् - अमि पूर्वः 6.1.107