व्याघ्रपात्

सुधाव्याख्या

व्याघ्रस्य पादा इव पादा मूलान्यस्य । ‘पादस्य लोप:-' (५.४.१३८) इत्यकारलोप: ॥


प्रक्रिया

व्याघ्र + ङस् + पाद + जस् – सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च (2.2.24) । वार्तिकम् ।
व्याघ्र + पाद - सुपो धातुप्रातिपदिकयोः 2.4.71
व्याघ्रपाद् - पादस्य लोपोऽहस्त्यादिभ्यः 5.4.138
व्याघ्रपाद् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
व्याघ्रपाद् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
व्याघ्रपाद् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
व्याघ्रपाद् / व्याघ्रपात् - वाऽवसाने 8.4.56