अमरकोशः


श्लोकः

श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः । कर्कन्धर्बदरी कोली कोलं कुवलफेनिले ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्रीपर्णी श्रीपर्णी स्त्रीलिङ्गः बहुव्रीहिः समासः ईकारान्तः
2 भद्रपर्णी भद्रपर्णी स्त्रीलिङ्गः बहुव्रीहिः समासः ईकारान्तः
3 काश्मर्य काश्मर्यः पुंलिङ्गः यप् तद्धितः अकारान्तः
4 कर्कन्धू कर्कन्धूः पुंलिङ्गः, स्त्रीलिङ्गः तत्पुरुषः समासः ऊकारान्तः
5 बदरी बदरी स्त्रीलिङ्गः अर उणादिः ईकारान्तः
6 कोली कोली स्त्रीलिङ्गः अच् कृत् ईकारान्तः
7 कोल कोलम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
8 कुवल कुवलम् नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
9 फेनिल फेनिलम् नपुंसकलिङ्गः इलच् तद्धितः अकारान्तः