कर्कन्धूः

सुधाव्याख्या

अथेति । कर्कं कण्टकं दधाति । ‘डुधाञ्’ (जु० उ० अ०) । अन्दूदृन्भू-' (उ० १.९३) इति निपातित: कूप्रत्ययान्तः ॥ शकन्ध्वादित्वात् (वा० ६.१.९४) पररूपम् इति स्वामी चिन्त्यः ॥


प्रक्रिया

धातुः - डुभृञ् धारणपोषणयोः


धा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
कर्क + अम् + धा + कू - अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः (१.९३) । उणादिसूत्रम् ।, उपपदमतिङ् 2.2.19
कर्क + धा + कू - सुपो धातुप्रातिपदिकयोः 2.4.71
कर्क + धा + ऊ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कर्क + ध् + ऊ - आतो लोप इटि च 6.4.64
कर्क + नुम् + ध् + ऊ - निपातनात् ।
कर्क + न् + ध् + ऊ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्कन्धू + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कर्कन्धू + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्कन्धू + रु - ससजुषो रुः 8.2.66
कर्कन्धू + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्कन्धूः - खरवसानयोर्विसर्जनीयः 8.3.15